गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वर: ।
गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः ॥
शङ्कारूपेण मच्चित्तं पङ्कीकृतमभूद्यया ।
किङ्करी यस्य सा माया शङ्कराचार्यमाश्रये
सदात्मध्याननिरतं विषयेभ्यः पराङमुखम् ।
नौमि शास्त्रेषु निष्णातं चन्द्रशेखरभारतीम् ll
विवेकिनं महाप्रज्ञं धैर्यौदार्यक्षमानिधिम् ।
सदाऽभिनवपूर्वं तं विद्यातीर्थगुरुं भजे ॥
भारतीकरुणा पात्रं भारती पदभूषणम् ।भारती पदमारूढं भारतीतीर्थमाश्रये ll